Right click disabled

Saturday 27 February 2016

Shri Swarnakarshana Bhairava Stotram श्री स्वर्णाकर्षण भैरव स्तोत्र


श्री स्वर्णाकर्षण भैरव स्तोत्र 

।। श्री मार्कण्डेय उवाच ।। 
भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम ! पूर्वमुक्तस्त्वया मन्त्रं, भैरवस्य महात्मनः ।। इदानीं श्रोतुमिच्छामि, तस्य स्तोत्रमनुत्तमं । तत् केनोक्तं पुरा स्तोत्रं, पठनात्तस्य किं फलम् ।। तत् सर्वं श्रोतुमिच्छामि, ब्रूहि मे नन्दिकेश्वर !।। 
।। श्री नन्दिकेश्वर उवाच ।। 
इदं ब्रह्मन् ! महा-भाग, लोकानामुपकारक ! स्तोत्रं वटुक-नाथस्य, दुर्लभं भुवन-त्रये ।। सर्व-पाप-प्रशमनं, सर्व-सम्पत्ति-दायकम् । दारिद्र्य-शमनं पुंसामापदा-भय-हारकम् ।। अष्टैश्वर्य-प्रदं नृणां, पराजय-विनाशनम् । महा-कान्ति-प्रदं चैव, सोम-सौन्दर्य-दायकम् ।। महा-कीर्ति-प्रदं स्तोत्रं, भैरवस्य महात्मनः । न वक्तव्यं निराचारे, हि पुत्राय च सर्वथा ।।शुचये गुरु-भक्ताय, शुचयेऽपि तपस्विने । महा-भैरव-भक्ताय, सेविते निर्धनाय च ।। निज-भक्ताय वक्तव्यमन्यथा शापमाप्नुयात् । स्तोत्रमेतत् भैरवस्य, ब्रह्म-विष्णु-शिवात्मनः ।। श्रृणुष्व ब्रूहितो ब्रह्मन् ! सर्व-काम-प्रदायकम् ।। 

विनियोगः- ॐ अस्य श्रीस्वर्णाकर्षण-भैरव-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षण-भैरव-देवता, ह्रीं बीजं, क्लीं शक्ति, सः कीलकम्, मम-सर्व-काम-सिद्धयर्थे पाठे विनियोगः । 

ध्यानः-  मन्दार-द्रुम-मूल-भाजि विजिते रत्नासने संस्थिते । दिव्यं चारुण-चञ्चुकाधर-रुचा देव्या कृतालिंगनः ।। भक्तेभ्यः कर-रत्न-पात्र-भरितं स्वर्ण दधानो भृशम् । स्वर्णाकर्षण-भैरवो भवतु मे स्वर्गापवर्ग-प्रदः ।। 
।। स्तोत्र-पाठ ।। 

ॐ नमस्तेऽस्तु भैरवाय, ब्रह्म-विष्णु-शिवात्मने, नमः त्रैलोक्य-वन्द्याय, वरदाय परात्मने ।। रत्न-सिंहासनस्थाय, दिव्याभरण-शोभिने । नमस्तेऽनेक-हस्ताय, ह्यनेक-शिरसे नमः ।  नमस्तेऽनेक-नेत्राय, ह्यनेक-विभवे नमः ।। नमस्तेऽनेक-कण्ठाय, ह्यनेकान्ताय ते नमः । नमोस्त्वनेकैश्वर्याय, ह्यनेक-दिव्य-तेजसे ।।  अनेकायुध-युक्ताय, ह्यनेक-सुर-सेविने । अनेक-गुण-युक्ताय, महा-देवाय ते नमः ।। नमो दारिद्रय-कालाय, महा-सम्पत्-प्रदायिने । श्रीभैरवी-प्रयुक्ताय, त्रिलोकेशाय ते नमः ।। दिगम्बर ! नमस्तुभ्यं, दिगीशाय नमो नमः । नमोऽस्तु दैत्य-कालाय, पाप-कालाय ते नमः ।। सर्वज्ञाय नमस्तुभ्यं, नमस्ते दिव्य-चक्षुषे । अजिताय नमस्तुभ्यं, जितामित्राय ते नमः ।। नमस्ते रुद्र-पुत्राय, गण-नाथाय ते नमः । नमस्ते वीर-वीराय, महा-वीराय ते नमः ।। नमोऽस्त्वनन्त-वीर्याय, महा-घोराय ते नमः । नमस्ते घोर-घोराय, विश्व-घोराय ते नमः ।। नमः उग्राय शान्ताय, भक्तेभ्यः शान्ति-दायिने । गुरवे सर्व-लोकानां, नमः प्रणव-रुपिणे ।। नमस्ते वाग्-भवाख्याय, दीर्घ-कामाय ते नमः । नमस्ते काम-राजाय, योषित्कामाय ते नमः ।। दीर्घ-माया-स्वरुपाय, महा-माया-पते नमः । सृष्टि-माया-स्वरुपाय, विसर्गाय सम्यायिने ।। रुद्र-लोकेश-पूज्याय, ह्यापदुद्धारणाय च । नमोऽजामल-बद्धाय, सुवर्णाकर्षणाय ते ।। नमो नमो भैरवाय, महा-दारिद्रय-नाशिने । उन्मूलन-कर्मठाय, ह्यलक्ष्म्या सर्वदा नमः ।। नमो लोक-त्रेशाय, स्वानन्द-निहिताय ते । नमः श्रीबीज-रुपाय, सर्व-काम-प्रदायिने ।। नमो महा-भैरवाय, श्रीरुपाय नमो नमः । धनाध्यक्ष ! नमस्तुभ्यं, शरण्याय नमो नमः ।। नमः प्रसन्न-रुपाय, ह्यादि-देवाय ते नमः । नमस्ते मन्त्र-रुपाय, नमस्ते रत्न-रुपिणे ।। नमस्ते स्वर्ण-रुपाय, सुवर्णाय नमो नमः । नमः सुवर्ण-वर्णाय, महा-पुण्याय ते नमः ।। नमः शुद्धाय बुद्धाय, नमः संसार-तारिणे । नमो देवाय गुह्याय, प्रबलाय नमो नमः ।। नमस्ते बल-रुपाय, परेषां बल-नाशिने । नमस्ते स्वर्ग-संस्थाय, नमो भूर्लोक-वासिने ।। नमः पाताल-वासाय, निराधाराय ते नमः । नमो नमः स्वतन्त्राय, ह्यनन्ताय नमो नमः ।। द्वि-भुजाय नमस्तुभ्यं, भुज-त्रय-सुशोभिने । नमोऽणिमादि-सिद्धाय, स्वर्ण-हस्ताय ते नमः ।। पूर्ण-चन्द्र-प्रतीकाश-वदनाम्भोज-शोभिने । नमस्ते स्वर्ण-रुपाय, स्वर्णालंकार-शोभिने ।। नमः स्वर्णाकर्षणाय, स्वर्णाभाय च ते नमः । नमस्ते स्वर्ण-कण्ठाय, स्वर्णालंकार-धारिणे ।। स्वर्ण-सिंहासनस्थाय, स्वर्ण-पादाय ते नमः । नमः स्वर्णाभ-पाराय, स्वर्ण-काञ्ची-सुशोभिने ।। नमस्ते स्वर्ण-जंघाय, भक्त-काम-दुघात्मने । नमस्ते स्वर्ण-भक्तानां, कल्प-वृक्ष-स्वरुपिणे ।। चिन्तामणि-स्वरुपाय, नमो ब्रह्मादि-सेविने । कल्पद्रुमाधः-संस्थाय, बहु-स्वर्ण-प्रदायिने ।। भय-कालाय भक्तेभ्यः, सर्वाभीष्ट-प्रदायिने । नमो हेमादि-कर्षाय, भैरवाय नमो नमः ।। स्तवेनानेन सन्तुष्टो, भव लोकेश-भैरव ! पश्य मां करुणाविष्ट, शरणागत-वत्सल ! श्रीभैरव धनाध्यक्ष, शरणं त्वां भजाम्यहम् । प्रसीद सकलान् कामान्, प्रयच्छ मम सर्वदा ।। 

।। फल-श्रुति ।। 
श्रीमहा-भैरवस्येदं, स्तोत्र सूक्तं सु-दुर्लभम् । मन्त्रात्मकं महा-पुण्यं, सर्वैश्वर्य-प्रदायकम् ।। यः पठेन्नित्यमेकाग्रं, पातकैः स विमुच्यते । लभते चामला-लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ।। चिन्तामणिमवाप्नोति, धेनुं कल्पतरुं ध्रुवम् । स्वर्ण-राशिमवाप्नोति, सिद्धिमेव स मानवः ।। संध्याय यः पठेत्स्तोत्र, दशावृत्त्या नरोत्तमैः । स्वप्ने श्रीभैरवस्तस्य, साक्षाद् भूतो जगद्-गुरुः । स्वर्ण-राशि ददात्येव, तत्क्षणान्नास्ति संशयः । सर्वदा यः पठेत् स्तोत्रं, भैरवस्य महात्मनः ।। लोक-त्रयं वशी कुर्यात्, अचलां श्रियं चाप्नुयात् । न भयं लभते क्वापि, विघ्न-भूतादि-सम्भव ।। म्रियन्ते शत्रवोऽवश्यम लक्ष्मी-नाशमाप्नुयात् । अक्षयं लभते सौख्यं, सर्वदा मानवोत्तमः ।। अष्ट-पञ्चाशताणढ्यो, मन्त्र-राजः प्रकीर्तितः । दारिद्र्य-दुःख-शमनं, स्वर्णाकर्षण-कारकः ।। य येन संजपेत् धीमान्, स्तोत्र वा प्रपठेत् सदा । महा-भैरव-सायुज्यं, स्वान्त-काले भवेद् ध्रुवं ।। 



मूल-मन्त्रः- “ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सः वं आपदुद्धारणाय अजामल-बद्धाय लोकेश्वराय स्वर्णाकर्षण-भैरवाय मम दारिद्र्य-विद्वेषणाय श्रीं महा-भैरवाय नमः ।” 

 Astrologer Govind
Astrologer Govind - Best Astrologer in Indore India
Contact :
Govind Singh
Mobile no. 8602947815

E-mail : govn909@outlook.com

1 comment: